श्री वामन स्तोत्रम् | Shri Vaman Stotram | Maharishi Kashyap | Vaman Dwadashi #narayan @Mere Krishna
#ekadashi #vaman #narayan #narayana #वामन #नारायण #एकादशी
कश्यपकृतं वामनस्तोत्रम्
कश्यप उवाच ।
नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलपालकाय ।
नमो नमस्तेऽमरनायकाय नमो नमो दैत्यविनाशनाय ॥१॥
नमो नमो भक्तजनप्रियाय नमो नमः सज्जनरञ्जिताय ।
नमो नमो दुर्जननाशनाय नमोऽस्तु तस्मै जगदीश्वराय ॥२॥
नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।
सशार्ङ्गचक्रासिगदाधाराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥३॥
नमः पयोराशिनिवासनाय नमोऽस्तु सद्धृत्कमलस्थिताय ।
नमोऽस्तु सूर्याद्यमितप्रभाय नमो नमः पुण्यकथागताय ॥४॥
नमो नमोऽर्केन्दुविलोचनाय नमोऽस्तु ते यज्ञफलप्रदाय ।
नमोऽस्तु यज्ञाङ्गविराजिताय नमोऽस्तु ते सज्जनवल्लभाय ॥५॥
नमो जगत्कारणकारणाय नमोऽस्तु शब्दादिविवर्जिताय ।
नमोऽस्तु ते दिव्यसुखप्रदाय नमो नमो भक्तमनोगताय ॥६॥
नमोऽस्तु ते ध्वान्तविनाशकाय नमोऽस्तु ते मन्दरधारकाय ।
नमोऽस्तु ते यज्ञवराहनाम्ने नमो हिरण्याक्षविदारकाय ॥७॥
नमोऽस्तु ते वामनरूपभाजे नमोऽस्तु ते क्षत्त्रकुलान्तकाय ।
नमोऽस्तु ते रावणमर्दनाय नमोऽस्तु ते नन्दसुताग्रजाय ॥८॥
नमस्ते कमलाकान्त नमस्ते सुखदायिने ।
स्मृतार्तिनाशिने तुभ्यं भूयो भूयो नमो नमः ॥९॥
यज्ञेश यज्ञविन्यास यज्ञविघ्नविनाशन ।
यज्ञरूप यजद्रूप यज्ञाङ्गं त्वां यजाम्यहम् ॥१०॥
इति स्तुतः स देवेशो वामनो लोकपावनः ।
उवाच प्रहसन्हर्षं वर्धयन्कश्यपस्य सः ॥११॥
इति नारदपुराणे पूर्वभागे एकादशाध्यायान्तर्गतं
कश्यपकृतं वामनस्तोत्रं समाप्तम्